शिवस्तुतिः
स्फुटं स्फटिकसप्रभं स्फुटितहारकश्रीजटं शशांकदलशेखरं कपिलफुल्लनेत्रत्रयम् ।
तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिमत्कदा नु शितिकंठ ते वपुरवेक्षते वीक्षणम् ॥१॥
त्रिलोचन विलोचने लसति ते ललामायिते स्मरो नियमघस्मरो नियमिनामभूद्भस्मसात् ।
स्वभक्तिलतया वशीकृतवती सतीयं सती स्वभक्तवशतो भवानपि वशी प्रसीद प्रभो ॥२॥
महेश महितोऽसितत्पुरुषपूरुषाग्र्यो भवानघोररिपुघोर तेऽनवम वामदेवांजलिः ।
नमः सपदिजात ते त्वमिति पंचरूपोचितप्रपंचचयपंचवृन्मम मनस्तमस्ताडय ॥३॥
तसाधानरसानलानिलवियद्विवस्वद्विधुप्रयट्टषुनिविष्टमित्यज भजामि मूर्त्यष्टकम् ।
प्रशांतमुत भीषणं भुवनमोहनं चेत्यहो वपूंषि गुणभूषितेऽहमहमात्ममोहम्भिदे ॥४॥
विमुक्तिपरमाध्वनां तव षडध्वनामास्पदं पदं निगमवेदिनो जगतिवामदेवादयः ।
कथंचिदुपशिक्षिता भगवतैव संविद्रते वयं तु विरलांतराः कथमुमेश तन्मन्महे ॥५॥
कठोरितकुठारया ललितशूलया वाहया रणड्डमरुणा स्फुद्धरिणया सखट्वांगया ।
चलाभिरचलामिरप्यगणिताभिरुन्नत्यतश्चतुर्दश जगंति ते जय जयेत्ययुर्विस्मयम् ॥६॥
पुरा त्रिपुररंधनं विविधदैत्यविध्वंसनं पराक्रम परंपरा अपि परा न ते विस्मयः ।
अमर्षिबलहर्षितक्षुभितवृत्तनेत्रो ज्ज्वलज्ज्वलनहेलया शलभितं हि लोकत्रयम् ॥७॥
सहस्रनयनो गुहः सहसहस्ररश्मिर्विधुर्बृहस्पतिरुताप्यतिः ससुरसिद्धविद्याधराः ।
भवत्पदपरायणाः श्रियमिमां ययुः प्रार्थितां भवान् सुरतरुर्भृशं शिव शिव शिवावल्लभ ॥८॥
तव प्रियतमादतिप्रियतम सदैवांतरं पयस्युपहितं घृतं स्वयमिव श्रियो वल्लभम् ।
विबुध्य लघुबुद्धयः स्वपरपक्षलक्ष्यायितं पठंति हि लुठंति ते शठहृदः शुचा शुंठिताः ॥९॥
निवासनिलया चिता तव शिरस्ततेर्मालिका कपालमपि ते करे त्वमशिवोऽस्यनंतर्धियाम् ।
तथापि भवतः पदं शिवशिवेत्यदो जल्पतामर्किचन न किंचन वृजिनमस्ति भस्मीभवेत् ॥१०॥
त्वमेव किलकामधुक् सकलकाममापूरयन् सदा त्रिनयनो भवान् वहति चार्चिनेत्रोद्भवम् ।
विषं विषधरान्दधत्पिबसि तेन चानंदवान्चिरुद्धचरितोचिता जगदधीश ते भिक्षुता ॥११॥
नमः शिवशिवशिवाशिवार्थकॄन्ता शिवं नमो हरहराहराह्र हरांतरीं मे द्दशम् ।
नमो भव भवाभवप्रभव भूतये मे भवान्नमो मृड नमो नमो नम उमेश तुभ्यं नमः ॥१२॥
सतां श्रवणपद्धतिं सरतु सन्नतोक्तेत्यसौ शिवस्य करुणंकुरात्प्रतिकृतात्सदा सोचिता ।
इति प्रथितमानसो व्यधित नाम नारायणः शिवस्तुतिमिमां शिवं लिकुचिसूरिसूनुः सुधीः ॥१३॥
इति श्रीमल्लिकुचिसूरिसूनुनारयणपंडिताचार्यविरचिता शिवस्तुतिः संपूर्णा॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें