नमस्ते परमेशानि ब्रह्मरूपे सनातनि सुरासुरजगद्वंदे कामेश्वरी नमोस्तुते ॥ 1 ॥
न ते प्रभावं जानन्ति ब्रह्माद्यास्त्रिदशेश्वराः प्रसीद जगतामाद्ये कामेश्वरी नमोस्तुते ॥ 2 ॥
अनादिपरमा विद्या देहिनां देहधारिणी त्वमेवासि जगद्वन्दे कामेश्वरी नमोस्तुते ॥ 3 ॥
त्वं बीजं सर्वभूतानां त्वं बुध्दिश्चेतनाधृतिः त्वं प्रबोधश्च निद्रा च कामेश्वरी नमोस्तुते ॥ 4 ॥
त्वमाराध्य महेशोऽपि कृतकृत्यं हि मन्यते आत्मानं परमात्माऽपि कामेश्वरी नमोस्तुते ॥ 5 ॥
दुर्वृत्तवृत्तसंहर्त्रि पापपुण्यफलप्रदे लोकानां तापसंहर्त्रि कामेश्वरी नमोस्तुते ॥ 6 ॥
त्वमेका सर्वलोकानां सृष्टिस्थित्यंतकारिणी करालवदने कालि कामेश्वरी नमोस्तुते ॥ 7 ॥
प्रपन्नार्तिहरे मातः सुप्रसन्नमुखाम्बुजे। प्रसीद परमे पूर्णे कामेश्वरी नमोस्तुते॥8 ॥
त्वामाश्रयन्ति ये भक्त्या यान्ति चाश्रयन्ता तु जगतां त्रिजगद्धात्रि कामेश्वरी नमोस्तुते ॥ 9 ॥
शुद्धज्ञानमये पूर्णे प्रकृतिः सृष्टिभाविनी। त्वमेव मातर्विश्वेशि कामेश्वरी नमोस्तुते ॥ 10 ॥
॥ इति श्री महाभागवते महापुराणे युधिष्ठिरकृता कामेश्वरीस्तुतिः सम्पूर्णा ॥

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें